पर्यावरण रक्षा संस्कृतिःनिबंध
वयं वायु-जल-मृद्भिः आवृत्ते वातावरणे निवसामः। एतदेव वातावरणं पर्यावरणं कथ्यते। साम्प्रतं शुद्धस्य पेयजलस्य समस्या वर्त्तते। अधुना वायुरपि शुद्धं नास्ति। अतएव पर्यावरणस्य रक्षा आवश्यकाऽस्ति औद्योगिकापशिष्टपदार्थाः, उच्चध्वनिः, यानधूम्रादयः प्रमुखानि कारणानि सन्ति। पर्यावरणरक्षायै वृक्षाः रोपणीयाः। तैलरहित वाहनानां प्रयोगः करणीयः।
