आतंकवाद पर निबंध संस्कृत में
आतंकवादः आधुनिक विश्वस्य गुरुतमा समस्या अस्ति।
संसारस्य प्रत्येकं देशः आतंकवादेन येन-केन प्रकारेण पीडितः अस्ति।
आतंकवादः विनाशस्य सा लीला या विश्वं ग्रसितुम् तत्परा अस्ति।
आतंकवादेन विश्वस्य अनेकानि क्षेत्राणि रक्त लिप्तानि सन्ति।
अनेन अनेके निर्दोषाः जनाः प्राणान् अत्यजन्।
महिलाः विधवाः जाताः बालाश्च अनाथाः अभवन्।
सर्वशक्तिमान अमेरिका देशोऽपि अनेन संतप्तः अस्ति।
भारतं तु आतंकवादेन अनेकैः वर्षेः पीडितः वर्त्तते।
आतंकवादे तु ते एव जनाः सम्मिलिताः सन्ति ये स्वार्थ पुर्तिम् कर्तुम् इच्छन्ति।
संसारे च अशान्तेः वातावरणम् द्रष्टुम् कामयन्ते।
शानेच्छुकैः देशैः आतंकवादस्य राक्षसस्य विनाशाय मिलित्वा एव प्रयत्नाः समाधेयाः अन्यथा एषा समस्या सुरसामुखम् इव प्रतिदिनं वृद्धिं यास्यति ।।”
(2023A1,2011A]
